(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.221. अध्यायः 221
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेनाग्नीनामुत्पत्त्यादिकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-221-0x(2527)(24615)
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह।
तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु ॥ 3-221-1(24616)
बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः।
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥ 3-221-2(24617)
प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत्।
देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता ॥ 3-221-3(24618)
भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत्।
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता ॥ 3-221-4(24619)
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः।
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता ॥ 3-221-5(24620)
यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते।
एकानकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता ॥ 3-221-6(24621)
पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती।
षष्ठीम्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ॥ 3-221-7(24622)
महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती।
महामतीति विख्याता सप्तमी कथ्यते सुता ॥ 3-221-8(24623)
बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी।
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ 3-221-9(24624)
आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते।
सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः ॥ 3-221-10(24625)
चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत्।
दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान् ॥ 3-221-11(24626)
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा।
अग्नितस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ 3-221-12(24627)
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे।
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ 3-221-13(24628)
पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम्।
भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः ॥ 3-221-14(24629)
तिस्रः कन्या भवन्त्यन्या यासां स भरत पतिः।
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका ॥ 3-221-15(24630)
भारतो भरतस्याग्नेः पावकस्तु प्रजायते।
महानत्यर्थमहितस्तथा भरतसत्तम ॥ 3-221-16(24631)
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः।
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ 3-221-17(24632)
हविषा यो द्वितीयेन सोमेन सह युज्यते।
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ 3-221-18(24633)
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत्।
आग्नेयमनयन्मिथ्यं मिथ्यो नामैव कथ्यते ॥ 3-221-19(24634)
यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया।
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ 3-221-20(24635)
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्।
विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु ॥ 3-221-21(24636)
अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ 3-221-22(24637)
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः।
तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः ॥ 3-221-23(24638)
यस्तु विश्वस् जगतो बुद्धिमाक्रम्य तिष्ठति।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ 3-221-24(24639)
अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम्।
स यज्ञे विश्वभुङ्वाम सर्वलोकेषु भारत ॥ 3-221-25(24640)
ब्रह्मचारी यतात्मा च सततं विपुलप्रभः।
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ 3-221-26(24641)
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया।
तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः ॥ 3-221-27(24642)
बडबाग्निः पिबत्यम्भो योसौ परमदारुणः।
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः ॥ 3-221-28(24643)
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते।
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः ॥ 3-221-29(24644)
यः प्रशान्तेषु भूतेषु आविर्भवति पावकः।
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥ 3-221-30(24645)
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति।
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन।
अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ 3-221-31(24646)
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः।
समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ 3-221-32(24647)
उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः।
महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः ॥ 3-221-33(24648)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकविंसत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-221-1 तस्यापि वसुधा भार्या इति ट. ध. पाठः ॥ 3-221-2 बृहत्तेजा बृहन्मना इति क. ध. पाठः ॥ 3-221-10 हविषाद्यं विधीयते इति झ. पाठः ॥ 3-221-17 वीरस्य पिण्डदा इतिझ. पाठः ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.